|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.77. अध्यायः 077
Mahabharata - Vana Parva - Chapter Topics
पुष्करं निष्कासितवता नलेन कुण्डिनपुरात्सपुत्राया दमयन्त्या आनयनपूर्वकं प्रजापालनेन सुखवासः ॥ 1 ॥ बृहदश्वेन द्युधिष्ठिरायाक्षहृदयविद्योपदेशपूर्वकं संक्षेपेण हरिश्चन्द्रोपाख्यानकथनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-77-0x(1974)(18834)
प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे।
महत्या सेनया राजा दमयन्तीमुपानयत् ॥ 3-77-1(18835)
`पुण्यश्लोकं तु राज्यस्थं श्रुत्वा भीमो महीपतिः।
मुदा परमया युक्तो बभूव भरतर्षभ ॥ 3-77-2(18836)
अथ हृष्टमना राजा महत्या सेनया सह।
सुतां प्रस्थापयामास पुण्यश्लोकाय धीमते' ॥ 3-77-3(18837)
दमयन्तीमपि पिता सत्कृत्यपरवीरहा।
प्रास्थापयदमेयात्मा भीमो भीमपराक्रमः ॥ 3-77-4(18838)
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः।
वर्तयामास मुदितो दोवराडिव नन्दने ॥ 3-77-5(18839)
तथा प्रकाशतां यातो जम्बूद्वीपे स राजसु।
पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः ॥ 3-77-6(18840)
ईजे च विविधैर्यज्ञैर्विधिवच्चाप्तदक्षिणैः।
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसे चिरात् ॥ 3-77-7(18841)
दुःखमेतादृशंप्राप्तो नलः परपुरंजयः।
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ ॥ 3-77-8(18842)
एकाकिनैव सुमहन्नलेन पृथिवीपते।
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः ॥ 3-77-9(18843)
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव।
कथाश्चापि समाकर्ण्य धर्ममेवानुचिन्तयन् ॥ 3-77-10(18844)
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः।
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ॥ 3-77-11(18845)
कर्कोटकस्य नागस् दमयन्त्या नलस्य च।
ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥ 3-77-12(18846)
इतिहासमिमं चापि कलिनाशनमच्युत।
शक्यमाश्वसितुं श्रुत्वा त्वद्विधेन विशांपते ॥ 3-77-13(18847)
अस्थिरत्वं च संचिन्त्य पुरुषार्थस् नित्यदा।
तस्योदये व्यये चापि न चिन्तयितुमर्हसि ॥ 3-77-14(18848)
श्रुत्वेतिहासं नृषते समाश्वसिहि मा शुचः।
व्यसने त्वं महाराज न विषीदितुमर्हसि ॥ 3-77-15(18849)
विषमावस्थिते दैवे पौरुषेऽफलतां गते।
विषादयन्ति नात्मानं सत्त्वापाश्रयिणो नराः ॥ 3-77-16(18850)
ये चेदं कथयिष्यन्ति नलस् चरितं महत्।
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति ॥ 3-77-17(18851)
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति।
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् ॥ 3-77-18(18852)
पुत्रान्पौत्रान्पशूंश्चापि लभते नृषु चाग्र्यताम्।
आरोग्यप्रीतिमांश्चैव भविष्ति न संशयः ॥ 3-77-19(18853)
भयात्रस्यसि यच्च त्वमाह्वयिष्यति मां पुनः।
अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव ॥ 3-77-20(18854)
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम।
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते ॥ 3-77-21(18855)
वैशम्पायन उवाच। 3-77-22x(1975)
ततो हृष्टमना राजा बृहदश्वमुवाच ह।
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः ॥ 3-77-22(18856)
`कौन्तेयेनैवमुक्तस्तु बृहदश्वो महामुनिः'।
ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने।
`लब्ध्वा च पाण्डवो राजा विशोकः समपद्यत ॥ 3-77-23(18857)
बृहदश्व उवाच। 3-77-24x(1976)
पुनरेव तु वक्ष्यामि यस्त्वत्तो दुःखितो नृपः।
तं शृणुष्व महाराज सर्वदुःखापनुत्तये ॥ 3-77-24(18858)
इक्ष्वाकूणां कुले जातो महात्मा पृथिवीपतिः।
त्रिशङ्कुरिति विख्यातोराजराजो महाद्युतिः ॥ 3-77-25(18859)
हरिश्चन्द्रस्ततो जज्ञे गुणरत्नाकरो नृपात्।
ततो विशेषैर्विविधैर्यज्ञैर्विपुलदक्षिणैः ॥ 3-77-26(18860)
स तु लोके वरः पुंसां पुण्यश्लोको महायशाः।
सत्यवादी मधुरवाक्सत्येन बहुभाषिता ॥ 3-77-27(18861)
तस्य भार्याऽभवद्भूमौ सौशील्यसमलंकृता।
उशीनरस्य राजर्षेर्दुहिता पुण्यलक्षणा ॥ 3-77-28(18862)
स्वयंवरे महाभागं वरयामास भामिनी।
हरिश्चन्द्रं समेतानां राज्ञां मद्ये पतिं विभुम् ॥ 3-77-29(18863)
तया सह महीपालः सत्यवत्या मनोज्ञया।
रेमे च सुचिरं कालं राजा राज्यमवाप्य च ॥ 3-77-30(18864)
तस्यां देव्यां हरिश्चन्द्राज्जज्ञे राजीवलोचनः।
पुत्रः पुण्यवतां श्रेष्ठो लोहिताश्व इति श्रुतः ॥ 3-77-31(18865)
देव्या पुत्रेण सहितः पुण्यश्लोको महायशाः।
वसिष्ठयाज्यो नृपतिरीजे शुण्यैर्महाध्वरैः ॥ 3-77-32(18866)
एतस्मिन्नेव काले तु विश्वामित्रो दिवं गतः।
पुरुहूतपुरीं रम्यामाजगामेन्द्रसेवया ॥ 3-77-33(18867)
उपस्थाने च संवृत्ते देवेन्द्रस्य महात्मनः।
आजगाम वसिष्ठोऽपि वामदेवसहायवान् ॥ 3-77-34(18868)
उपस्थाने च संवृत्ते सुखासीने पुरंदरे।
वर्ण्यमानेषु च तदा सत्यवादिषु राजसु ॥ 3-77-35(18869)
तस्यां संसदिसर्वस्माद्धरिश्चन्द्रोऽपि पप्रथे।
यज्ञदानतपःशीलसत्यवाक्यदृझव्रतैः ॥ 3-77-36(18870)
वसिष्ठः परमप्रीतः स्वयाज्यपरिकीर्तनात्।
तथापि विश्वामित्रस्तं न सेहे सत्यभूषितम् ॥ 3-77-37(18871)
हरिश्चन्द्रं प्रति तदा विश्वामित्रवसिष्ठयोः।
पणः कृतस्तदा पश्चाद्विश्वामित्रेण पार्थिवः ॥ 3-77-38(18872)
राज्याच्चापि सुखाच्चापि सहसा चावरोपितः।
अवाप परमं दुःखं मरणादमनोहरम् ॥ 3-77-39(18873)
वैशम्पायन उवाच। 3-77-40x(1977)
तच्छ्रुत्वा परमप्रीतो धर्मराजो युधिष्ठिरः।
भ्रातृभिर्ब्राह्मणैश्चैव द्रौपद्या च समन्वितः।
विस्मयं परमं गत्वा साधुसाध्वित्यभाषत ॥ 3-77-40(18874)
ततो हरिश्चन्द्रकथां च सर्वे
श्रुत्वा तु राजा मनुजेन्द्रकेतुः।
विहाय शोकं विजहार भूयः
स्मरन्हरिश्चन्द्रमनन्तकीर्तिम् ॥ 3-77-41(18875)
कथामेवं तथा कृत्वा हरिश्चन्द्रनलाश्रयाम्।
आमन्त्र्य पाण्डवान्सर्वान्बृहदश्वो जगाम ह'।
उक्त्वा चाशु सरोऽगच्छदुपस्प्रष्टुं महातपाः ॥ 3-77-42(18876)
बृहदश्व गते पार्थमश्रौषीत्सव्यसाचिनम्।
वर्तमनं तपस्युग्रे वायुभक्षं मनीषिणम् ॥ 3-77-43(18877)
ब्राह्मणएभ्यस्तपस्विभ्यः संपतद्भ्यस्ततस्ततः।
तीर्थशैलवनेभ्यश्च समेतेभ्यो दृढव्रतः ॥ 3-77-44(18878)
इतिपार्थो महाबाहुर्दुरापं तप आस्थितः।
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ॥ 3-77-45(18879)
यथा धनंजयः पार्थस्तपस्वी नियतव्रतः।
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ॥ 3-77-46(18880)
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने।
अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् ॥ 3-77-47(18881)
दह्यमानेन तु हृदा शरणार्थी महावने।
ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ॥ 3-77-48(18882)
`प्रतिगृह्याक्षहृदयं कुन्तीपुत्रो युधिष्ठिरः।
आसीद्धृष्टमना राजन्भीमसेनादिभिर्युतः ॥ 3-77-49(18883)
स्वभ्रातॄन्सहितान्पश्यन्कुन्तीपुत्रो युधिष्ठिरः।
अपश्यन्नर्जुनं तत्रबभूवाश्रुपरिप्लुतः ॥ 3-77-50(18884)
संतप्यमानः कौन्तेयो भीमसेनमुवाच ह।
कदा द्रक्ष्यामि वै भीम पार्तमत्र तवानुजम् ॥ 3-77-51(18885)
मत्कृते हि कुरुश्रेष्ठ तष्यते परमं तपः।
तस्याक्षहृदयज्ञानमाख्यास्यामि कदा न्बहम् ॥ 3-77-52(18886)
स हि श्रुत्वाऽक्षहृदयं समुपात्तं मया विभो।
प्रहृष्टः पुरुषव्याघ्रो भविष्यति न संशयः' ॥ 3-77-53(18887)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-77-1 प्रशान्ते वीतशोके। प्रशान्ते पुष्करे हृष्टे इति क. पाठः ॥ 3-77-7 वक्ष्यसे दीव्यसे। वशकान्तावित्यस्य रूपम्। समहच्यक्ष्यसे ह्यघमिति क. पाठः ॥ 3-77-21 वेद वेद्मि। उपपद्यस्व गृहाण ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|